|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.188. अध्यायः 188
Mahabharata - Adi Parva - Chapter Topics
भूतले पतितं राजानं दृष्ट्वा तत्समीपे तपत्या आगमनम्॥ 1 ॥ तयोः संवादः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
गन्धर्व उवाच। 1-188-0x(1074)(8430)
अथ तस्यामदृश्यायां नृपतिः काममोहितः।
पातनः शत्रुसङ्घानां पपात धरणीतले॥ 1-188-1(8431)
तस्मिन्निपतिते भूमावथ सा चारुहासिनी।
पुनः पीनायतश्रोणी दर्शयामास तं नृपम्॥ 1-188-2(8432)
अथाबभाषे कल्याणी वाचा मधुरया नृपम्।
तं कुरूणां कुलकरं कामाभिहतचेतसम्॥ 1-188-3(8433)
उवाच मधुरं वाक्यं तपती हसतीव सा।
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम॥ 1-188-4(8434)
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ।
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा॥ 1-188-5(8435)
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम्।
अथ तामसितापाङ्गीमाबभाषे स पार्थिवः॥ 1-188-6(8436)
मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा।
साधु त्वमसितापाङ्गि कामार्तं मत्तकाशिनि॥ 1-188-7(8437)
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्।
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः॥ 1-188-8(8438)
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति।
दष्टमेवमनाक्रन्दे भद्रे काममहाहिना॥ 1-188-9(8439)
सा त्वं पीनायतश्रोणी मामाप्नुहि वरानने।
त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि॥ 1-188-10(8440)
चारुसर्वानवद्याङ्गि पद्मेन्दुप्रतिमानने।
न ह्यहं त्वदृते भीरु शक्ष्यामि खलु जीवितुम्॥ 1-188-11(8441)
कामः कमलपत्राक्षि प्रतिविध्यति मामयम्।
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने॥ 1-188-12(8442)
भक्तं मामसितापाङ्गि न परित्यक्तुमर्हसि।
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि॥ 1-188-13(8443)
त्वद्दर्शनकृतस्नेहं मनश्चलति मे भृशम्।
न त्वां दृष्ट्वा पुनश्चान्यां द्रष्टुं कल्याणि रोचते॥ 1-188-14(8444)
प्रसीद वशगोऽहं ते भक्तं मां भज भामिनि।
दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने॥ 1-188-15(8445)
अन्तर्गतं विशालाक्षि विध्यति स्म पतत्त्रिभिः।
मन्मथाग्निसमुद्भूतं दाहं कमललोचने॥ 1-188-16(8446)
प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे।
पुष्पायुधं दुराधर्षं प्रचण्डशरकार्मुकम्॥ 1-188-17(8447)
त्वद्दर्शनसमुद्भूतं विध्यन्तं दुःसहैः शरैः।
उपशामय कल्याणि आत्मदानेन भामिनि॥ 1-188-18(8448)
गान्धर्वेण विवाहेन मामुपैहि वराङ्गने।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते॥ 1-188-19(8449)
तपत्युवाच। 1-188-20x(1075)
नाहमीशाऽऽत्मनो राजन्कन्या पितृमती ह्यहम्।
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम॥ 1-188-20(8450)
यथा हि ते मया प्राणाः संभृताश्च नरेश्वर।
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः॥ 1-188-21(8451)
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम।
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः॥ 1-188-22(8452)
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्।
कन्या नाभिलषेन्नाथं भार्तारं भक्तवत्सलम्॥ 1-188-23(8453)
तस्मादेवं गते काले याचस्व पितरं मम।
आदित्यं प्रणिपातेन तपसा नियमेन च॥ 1-188-24(8454)
स चेत्कामयते दातुं तव मामरिसूदन।
भविष्याम्यद्य ते राजन्सततं वशवर्तिनी॥ 1-188-25(8455)
अहं हि तपती नाम सावित्र्यवरजा सुता।
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ॥ ॥ 1-188-26(8456)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि अष्टाशीत्यधिकशततमोऽध्यायः॥ 188 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-188-8 प्रजहन्ति प्रजहति॥ 1-188-9 अनाक्रन्दे अत्रातरि काले॥ अष्टाशीत्यधिकशततमोऽध्यायः॥ 188 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|